SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ३ ऽध्यायः सृष्ट्युत्पत्तिवर्णनम् । आद्याधस्य गुणं त्वेषामवाप्नोति परः परः। यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः ।।२० सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे ॥ २१ कर्मात्मनां च देवानां सोऽसृजत्प्राणिनां प्रभुः । साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ।। २२ अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह यज्ञसिद्धयर्थमृग्यजुः सामलक्षणम् ।। २३ कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा । सरितः सागराछैलान् समानि विषमाणि च ।। २४ तपो वाचं रतिञ्चैव कामं च क्रोधमेव च । सृष्टिं ससर्ज चैवेमां स्रष्टुमिच्छनिमाः प्रजाः ।। २५ कर्मणां च विवेकाय धर्माधर्मों व्यवेचयत् । द्वन्द्व रयोजयञ्चमाः सुखदुःखादिभिः प्रजाः ॥ २६ अण्ञ्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः । ताभिः सार्धमिदं सर्व सम्भवत्यनुपूर्वशः ।। २७ यं तु कर्मणि यस्मिन्स न्ययुङ्क्त प्रथमं प्रभुः । स तदेव स्वयम्भेजे सृज्यमानः पुनः पुनः ।। २८ हिंस्राहिंस्र मृदुक रे धर्माधर्मावृतानृते । यद्यस्य सोऽदधात्सर्गे तत्तस्य स्वयमाविशत् ।। २६ यथर्तुलिङ्गान्य॒तवः स्वयमेवर्तुपर्यये । स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः ।। ३०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy