SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीगणेशाय नमः॥ मनुस्मृतिः। प्रथमोऽध्यायः । मनुमेकाग्रमासीनमभिगम्य महर्षयः।। प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥ १ भगवन् सर्ववर्णानां यथावदनुपूर्वशः। अन्तरप्रभवानां च धर्मान्नो वक्तुमईसि ॥२ त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयम्भुवः। अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो ॥३ स सैः पृष्टस्तथा सम्यगमितौजा महात्मभिः। प्रत्युवाचाफ़ तान् सर्वान् महर्षीन् श्रूयतामिति ॥ ४. आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं प्रसुप्तमिव सर्वतः॥५ ततः स्वयम्भूभगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः॥६ योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽज्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्धभौ ॥७ सोऽभिध्याय शरीरात स्वात् सिमृक्षुर्विविधाः प्रजाः। अप एव ससर्जादौ तासु वीर्यमवासृजत् ।। ८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy