________________
ऽध्यायः] अगम्यागमनप्रायश्चित्तम् ।
स तु पापविशुद्धयर्थं प्रायश्चित्तं समाचरेत् ॥२७ दद्याद्विप्राय विदुषे मधुधेनुं यथोदितम् । तिलद्रोणशतञ्चैव हिरण्येन समन्वितम् ॥२८ पितृष्वस्रभिगमनादक्षिणा(ना)शव्रणी भवेत् । तेनापि निष्कृतिः कार्या अजादानेन शक्तितः ॥२६ मातुलान्यान्तु गमने पृउकुजः प्रजायते । कृष्णाजिनप्रदानेन प्रायश्चित्तं समाचरेत् ॥३० मातृष्वनभिगमने वामाङ्गे व्रणवान् भवेत् । तेनापि निष्कृतिः कार्या सम्यग्दासीप्रदानतः ॥३१ मृतभार्याभिगमने मृतभार्यः प्रजायते । तत्पातकविशुद्धय द्विजमेकं विवाहयेत् ॥३२ सगोत्रस्रोप्रसङ्गेन जायते च भगन्दरः। तेनापि निष्कृतिः कार्य्या महिषीदानयत्नतः ॥३३ तपस्विनीप्रसङ्गेन प्रमेही जायते नरः । मासं रुद्र जपः कार्यो दद्याच्छक्या च काश्चनम् ॥३४ दीक्षितस्त्रोप्रसङ्गेन जायते दुष्टरक्तदृक् । स पातकविशुद्धयर्थ प्राजापत्यद्वयञ्चरेत् ।।३५ स्वजातिजायागमने जायते हृदयव्रणी । तत्पापस्य विशुद्धयर्थं प्राजापत्यद्वयञ्चरेत् ॥३६ पशुयोनौ च गमने मूत्राघातः प्रजायते । तिलपत्रद्वयञ्चैव दद्यादात्मविशुद्धये ॥३७