________________
५६६
__ पूर्वजन्माकृतप्रायश्चित्तचिन्हम् । पूर्वजन्मकृतं पापं नरकस्य परिक्षये। बाधते व्याधिरूपेण तस्य जप्यादिभिः शमः ॥५ कुष्ठश्च राजयक्ष्मा च प्रमेहो ग्रहणी तथा । मूत्रकृच्छाश्मरीकासा अतीसारभगन्दरौ ॥६ दुष्टब्रणं गण्डमाला पक्षाघातोऽक्षिनाशनम् । इत्येवमादयो रोगा महापापोद्भवाः स्मृताः॥७ जलोदरं यकृत् प्लीहा शूलरोगव्रणानि च । श्वासाजीर्णज्वरच्छर्दिभ्रममोहगलग्रहाः । रक्तार्बुद विसर्पाद्या उपपापोद्भवा गदाः ॥८ दण्डापतानकश्चित्रवपुः कम्पविचर्चिकाः। वल्मीकपुण्डरीकाद्या रोगाः पापसमुद्भवाः ।। अर्शाद्या नृणां रोगा अतिपापाद्भवन्ति हि। अन्ये च बहवो रोगा जायन्ते वर्णसङ्कराः ॥१० उच्यन्ते च निदानानि प्रायश्चित्तानि वै क्रमात् । महापापेषु सर्व स्यात्तदर्द्ध मुपपातके ॥११ दद्यात् पापेषु पष्ठांशं कल्प्यं व्याधिबलाबलम् । अथ साधारणन्तेषु गोदानादिषु कथ्यते ॥१२ गोदाने वत्सयुक्ता गौः सुशीला च पयस्विनी ॥१३ वृषदाने शुभोऽनडान् शुक्लाम्बरसकाञ्चनः । निवर्तनानि भूदाने दश दद्याद्विजातये ॥१४ दशहस्तेन दण्डेन त्रिंशदण्डं निवर्तनम् । दरा तान्येव गोचर्म दत्वा स्वर्गे महीयते ॥१५ .