SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ दक्षस्मृतिः। [षष्ठोऽएकाहस्तु समाख्यातो योऽग्निवेदसमन्वितः । हीने हीनतरेचैव द्वित्रिचतुरहस्तथा ॥६ जातिविप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्य पञ्चदशाहेन शूद्रो मासेन शुद्धथति ॥७. अस्नात्वा चाप्यहुत्वा च भुङ्क्तेऽदत्वा च यः पुनः । एवं विधस्य सर्वस्य सूतकं समुदाहृतम् । व्याधितस्य कदर्य्यस्य भृणग्रस्तस्य सर्वदा । क्रियाहीनस्य मूर्खस्य स्त्रीजितस्य विशेषतः ॥८ व्यसनासक्तचित्तस्य पराधीनस्य नित्यशः। श्रद्धात्यागविहीनस्य भस्मान्तं सूतकं भवेन् ।। न सूतकं कदाचित् स्याद्यावज्जीवन्तु सूतकम् । एवं गुणविशेषेण सूतकं समुदाहृतम् ।।१० सूतके मृतके चैव तथा च मृतसूतके । एतत्संहतशौचानां मृतशौचेन शुद्धयति ॥११ दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते । दशाहात्तु परं शौचं विप्रोऽर्हति च धर्मवित् ।।१२ दानञ्च विधिना देयं अशुभात्तारकं हि तत् । मृतकान्ते मृतो यस्तु सूतकान्ते च सूतकम् ॥१३ एतत्संहतशौचानां पूर्वाशौचेन शुद्धयति । उभयत्र दशाहानि कुलस्यान्न न भुज्यते ॥१४ चतुर्थेऽहनि कर्तव्यमस्थि सञ्चयनं द्विजैः । ततः सञ्चयनादूर्द्ध मङ्गस्पर्शो विधीयते ॥१५
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy