SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ ध्यायः] अशौचवर्णनम्। अन्यदेव दिवाशौचं रात्रावन्यद्विधीयते । अन्यदापत्सु विप्राणामन्यदेव घनापदि ॥११ दिवोदितस्य शौचस्य रात्रावद्ध विधीयते । तदर्द्धमातुरस्याहुस्त्वरायामर्द्ध मध्वनि ॥१२ न्यूनाधिकं न कर्तव्यं शौचे शुद्धिमभीप्सिता । प्रायश्चित्तेन युज्येत विहितातिक्रमे कृते ॥१३ इति दाक्षे धर्मशास्त्रे पञ्चमोऽध्यायः ।। ।। अथ षष्ठोऽध्यायः ॥ सूतकं तु प्रवक्ष्यामि जन्ममृत्युसमुद्भवम् । यावजीवं तृतीयन्तु यथावदनुार्वशः ।।१ सद्यः शौचं तथैकाहोद्वित्रिचतुरहस्तथा । दशाहो द्वादशाहश्च पक्षोमासस्तथैव च ॥ मरणान्तं तथा चान्यद्दशपक्षन्तु सूतके। उपन्यस्तक्रमेणैव वक्ष्याम्यहमशेषतः ॥३ प्रन्थार्थ यो विजानाति वेदमङ्गः समन्वितम् । सकल्पं सरहस्यञ्च क्रियावांश्चन्न सूतकी ॥४ राजविग्दीक्षितानाञ्च बाले देशान्तरे तथा । वतिनां सत्रिणाञ्चैव सद्यः शौचं विधीयते ॥५
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy