SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ ५८२ दक्षस्मृतिः। [पञ्चमोऽ ।। अथ पञ्चमोऽध्यायः ॥ उक्तं शौचमशौचञ्च काय्यं त्याज्यं मनीषिभिः । विशेषार्थं तयोः किश्चिद्वक्ष्यामि हितकाम्यया ॥१ शौचे यत्नः सदाकार्य्यः शौचमूलोद्विजः स्मृतः । शौचाचारविहीनस्य समस्तनिष्फला: क्रियाः ॥२ शौचञ्च द्विविधं प्रोक्तं वाह्यमाभ्यन्तरन्तथा। मृजलाभ्यां स्मृतं वाह्यं भावशुद्धिस्तथान्तरम् ॥३ अशौचाद्धि वरं वाह्यं तस्मादाभ्यन्तरं वरम् । उभाभ्याञ्च शुचिर्यस्तु स शुचिनेतरः शुचिः ॥४ एका लिङ्गे गुदे तिस्रोदश वामकरे तथा । उभयोः सप्त दातव्या मृदस्तिस्रस्तु पादयोः ।।५ गृहस्पशौचमाख्यातं त्रिष्वन्येषु यथाक्रमम् । द्विगुणं त्रिगुणञ्चैव चतुर्थस्य चतुर्गुणम् ॥६ अर्द्धप्रस्मृतिमात्रन्तु प्रथमा मृत्तिका स्मृता । द्वितीया च तृतीया च तदद्ध परिकीर्तिता ॥७ लिङ्गऽप्यत्र समाख्याता त्रिपर्वी पूर्यते यया । एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ॥८ त्रिगुणन्तु वनस्थानां यतीनाञ्च चतुर्गणम् । दातव्यमुदकन्तावन्मृदभावोयथा भवेत् ।। मृदा जलेन शुद्धिः स्यान्नक्लेशो न धनव्ययः । यस्य शौचेपि शैथिल्यं चित्तं तस्य परीक्षितम् ।।१८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy