________________
दक्षस्मृतिः। [चतुर्थोऽअवश्या सा भवेत् पश्चाद् यथा व्याधिरुपेक्षितः । अनुकूला नवाग्दुष्टा दक्षा साध्वी प्रियम्बदा ॥३ आत्म गुप्ता स्वामिभक्ता देवता सा न मानुषी ।।४ अनुकूलकलत्रीय स्तस्य स्वर्ग इहैव हि । प्रतिकूलकलत्रस्य नरको नात्र संशयः ॥५ स्वर्गेऽपि दुर्लभं ह्येतदनुरागः परस्परम् । रक्त एको विरक्तोऽन्यस्तस्मात् कप्तरं नु किम् ॥६ गृहवासः सुखार्थाय पत्नीमूलं गृहे सुखम्। ' सा पत्नी या विनीता स्याञ्चितज्ञा वशवर्तिनी ॥७ दुःखा बन्या सदा खिन्ना चित्तभेदः परस्परम् । प्रतिकूलकलत्रस्य द्विदारस्य विशेषतः ।।८ योषित्सर्वा जलौकेव भूषणाच्छादनाशनैः । सुभूत्यापि कृता नित्यं पुरुषं अपकर्षति ॥ जलौका रक्तमादत्ते केवलं सा तपस्विनी। . इतरा तु धनं वित्त मांसं वीयं बलं सुखम् ॥१० सशङ्का वालभावे तु यौवने विमुखी भवेत् । तृणवन्मन्यते पश्चाद्वृद्धभावे स्वकं पतिम् ॥११ अनुकूला नवाग्दुष्टा दक्षा साध्वी पतिव्रता । एभिरेव गुणैर्युक्ता श्रीरेव स्त्री न संशयः ॥१२ या हृटमनसा नित्यं स्थानमानविचक्षणा। भर्तः प्रीतिकरी नित्यं सा भार्या हीतरा जरा ॥१३