SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ दक्षस्मृतिः। [प्रथमोऽउपनीतस्य दोषोऽस्ति क्रियमाणैर्विगर्हितः।। अप्रामव्यवहारोऽसौ यावत् षोड़शवार्षिकः ॥६ स्वीकरोति यदा वेदं चरेद्वेदब्रतानि च । ब्रह्मचारी भवेत्तावदूर्द्ध स्नातो भवेद्गृही ॥७ द्विबिधोब्रह्मचारी तु स्मृतः शास्त्रे मनीषिभिः । उपकुर्वाणकस्त्वाद्योद्वितीयोनैष्ठिकः स्मृतः॥८ योगृहाश्रममास्थाय ब्रह्मचारी भवेत् पुनः । न यतिन वनस्थश्च सर्वाश्रमविवर्जितः ॥ अनाश्रमी न तिष्ठेत्तु दिनमेकमपि द्विजः । आश्रमेण विना तिष्ठन् प्रायश्चित्तीयते हि सः॥१० जपे होमे तथा दाने स्वाध्याये च रतस्तु यः। नासौ तत्फलमाप्नोति कुर्वाणोऽप्याश्रमाच्च्युतः । त्रयाणामानुलोम्यं हि प्रातिलोम्यं न विद्यते ।। ११ प्रातिलोम्येन यो याति न तस्मात् पापकृत्तमः । मेखलाजिनदण्डेन ब्रह्मचारी तु लक्ष्यते ॥१२ गृहस्थोदेवयज्ञाद्यैर्नखलोम्ना वनाश्रितः। त्रिदण्डेन यतिश्चैव लक्षणानि पृथक् पृथक् ॥१३ यस्यैतल्लक्षणं नास्ति प्रायश्चित्ती नचाश्रमी । उक्त कर्म क्रमोनोक्तो न कालो मुनिभिः स्मृतः । द्विजानान्तु हितार्थाय दक्षस्तु स्वयमत्रवीत् ।।१४ इति दाक्षे धर्मशास्त्रे प्रथमोऽध्यायः ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy