________________
.
॥ अथ ॥ दक्षस्मृतिः।
-०80प्रथमोऽध्यायः।
-: :
श्रीगणेशाय नमः।
अथादौ-आश्रमवर्णनम्। सर्वधर्मार्थतत्त्वज्ञ सर्ववेदविदां वरः। पारगः सर्वविद्यानां दक्षो नाम प्रजापतिः॥१ उत्पत्तिः प्रलयश्चैव स्थितिः संहार एव च । आत्मा चात्मनि तिष्ठेत आत्मा ब्रह्मण्यवस्थितः ॥२ ब्रह्मचारी गृहस्थश्च वानप्रस्थोयतिस्तथा। एतेषान्तु हितार्थाय दक्षः शास्त्रमकल्पयत् ॥३ जातमात्रः शिशुस्तावद्यावदष्टौ समा वयः । सहि गर्भसमोशेयोव्यक्तिमात्रप्रदर्शितः ॥४ भक्ष्याभक्ष्ये तथा पेये वाच्यावाच्ये तथानृते । तस्मिन् काले न दोषोऽस्ति स यावन्नोपनीयते ॥५