SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ ५६८ सम्वतस्मृतिः। ऋग्वेदमभ्यसेद्यस्तु यजुःशाखामथापि वा। . सामानि सरहस्यानि सर्वपापैः प्रमुच्यते ॥२२३ पावमानी तथा कौत्सं पौरुषं सूक्तमेव च । जप्त्वा पापैः प्रमुच्येत पित्र्यञ्च मधुच्छन्दसाम् ॥२२४ मण्डलं ब्राह्मणं रुद्रसूक्तोक्ताश्च वृहत्कथाः । वामदेव्यं वृहत्साम जप्त्वा पापैः प्रमुच्यते ॥२२५ चान्द्रायणन्तु सर्वेषां पापानां पावनं परम् । कृत्वा शुद्धिमवाप्नोति परमं स्थानमेव च ॥२२६ धर्मशास्त्रमिदं पुण्यं सम्वत्तेन तु भाषितम् । अधीत्य ब्राह्मणो गच्छेद्ब्रह्मणः सद्म शाश्वतम् ।।२२७ इति श्रीसम्वर्तेनोक्तं धर्मशास्त्रं समाप्तम् ॥ ॐ तत्सत् ३
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy