SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्ते गायत्रीमहत्ववर्णनम् । अलिलवासाः स्थलगः शुचौ देशे समाहितः। पवित्रपाणिराचान्तो गायच्या जपमारभेत् ॥२१२ ऐहिकामुष्मिकं लोके पापं सर्व विशेषतः । पञ्चरात्रोण गायत्री जपमानो व्यपोहति ॥२१३ गायत्र्यास्तु परं नास्ति शोधनं पापकर्मणाम् ।।२१४ महाव्याहृतिसंयुक्ता प्राणामामेन संयुताम् । गायत्री प्रजपन् विप्रः सर्वपापैः प्रमुच्यते ॥२१५ ब्रह्मचारी मिताहारः सर्वभूतहिते रतः। गायत्र्या लक्षजप्येन सर्वपापैः प्रमुच्यते ॥२१६ अयाज्ययाजनं कृत्वा भुक्ता चान्नं विगहितम् । गायत्र्यष्टसहस्रन्तु जप्यं कृत्वा विमुच्यते ॥२१७ अहन्यहनि योऽधीते गायत्रीं वै द्विजोत्तमः । मासेन मुच्यते पापादुरगः कञ्चुकाद्यथा ॥२१८ गायत्रीं यः सदा विप्रो जपते नियतः शुचिः। स याति परमं स्थानं वायुभूतः खमूर्तिमान् ॥२१६ प्रणवेन तु संयुक्ता व्याहृतिः सप्त नित्यशः। गायत्रीं शिरसा साद्ध मनसा त्रिः पठेद्विजः ॥२२० निगृह्य चात्मनः प्राणान् प्राणायामो विधीयते । प्राणायामत्रयं कुर्य्यानित्यमेव समाहितः ॥२२१ मानसं वाचिकं पापं कायेनैव तु यत्कृतम् । तत्सर्व नश्यते तूर्ण प्राणायामत्रये कृते ।।२२२
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy