________________
अभक्ष्यभक्ष्ये-प्रायश्चित्तवर्णनम् । ५६५ विडालमूषकोच्छिष्टे पञ्चगव्यं पिवेद्विजः। शूद्रोच्छिष्टं तथा भुक्ता त्रिरात्रेणैव शुध्यति ॥१६० पलाण्डुलशुनं जग्ध्वा तथैव ग्रामकुक्कुटम् । छत्राकं विड्वराहश्च चरेचान्द्रायणं द्विजः ॥१६१ मानवः श्वखरोष्ट्राणां कपेोमायुकङ्कयोः। प्राश्य मूत्र पुरीषं वा चरेश्चान्द्रायणव्रतम् ॥१६२ अन्नं पर्युषितं भुक्ता केशकीटैल्पद्रुतम् । पतितः प्रेक्षितं वापि पञ्चगव्यं पिवेद्विजः ॥१६३ अन्त्यजाभाजने भुक्ता ह्यदक्याभाजनेऽपिवा । गोमूत्रयावकाहारी मासान विशुध्यति ॥१६४ गोमांसं मानुषञ्चैव शुनोहस्तात् समाहितम् । अभक्ष्यमेतत् सर्वन्तु भुक्ता चान्द्रायणं चरेत् ॥१६५ चाण्डालस्य करे विप्रः श्वपाके पुकशेऽपिवा। गोमूत्रयावकाहारो मासान विशुष्यति ॥१६६ पतितेन सुसम्पर्के मासं मासार्द्ध मेव वा । गोमूत्रयावकाहारो मासान विशुध्यति ।।१६७ यत्र यत्र च सङ्कीर्णमात्मानं मन्यते 'द्विजः । तत्र कार्य्यस्तिलैहोमो गायत्र्यावर्त्तनं तथा ॥१६८ एष एव मया प्रोक्तः प्रायश्चित्तविधिः शुभः । अनादिष्टेषु पापेषु प्रायश्चित्तं तथोच्यते ॥१६६ दान)मैर्जपैनित्यं प्राणायामैद्विजोत्तमः । पातकेभ्यः प्रमुच्येत वेदाभ्यासान संशयः ।।२००