________________
सम्बस्मृतिः। अस्पृश्यं संस्पृशेद्यस्तु स्नानं तेन विधीयते।। ऊर्ध्वमाचमनं प्रोक्तं द्रव्याणां प्रोक्षणं तथा ॥१७६ चाण्डालाबैस्तु संपृष्ट उच्छिष्टश्च द्विजोत्तमः । गोमूत्रयावकाहारः षड्रात्रेण विशुध्यति ।।१८० शुना पुष्पवती स्पृष्टा पुष्पवत्यान्यया तथा । शेषान्यहन्युपवसेत् स्नाता शुध्येघृताशनात् ।।१८५ चाण्डालभाण्डसंस्पृष्टं पीत्वा. कूपगतं जलम् । गोमूत्रयावकाहारस्त्रिरात्रेण विशुध्यति ।।१८२ अन्यजः स्वीकृते तीर्थे तडागेषु नदीषु च । शुध्यते पञ्चगव्येन पीत्वा वोयमकामतः ।।१८३ सुराघदप्रपातोयं पीत्वाकाशजलं तथा । । अहोरात्रोषितोभूत्वा पञ्चगव्यं पिवेद्विजः ।।१८४ कूपे विण्मूत्रसंसरे प्राश्य चापोः द्विजातयः । त्रिरागैव शुध्यन्ति कुम्भे शान्तपनं स्मृतम् ॥१८५ बापीकूपतडागानां दूषितानां विशोधनम्। अपां घटशतोद्धारः पञ्चगव्यश्च निक्षिपेत् ।।१८६ आविकैकशफोष्ट्रीणां क्षीरं प्राश्य द्विजोत्तमः । तस्य शुद्धिविधानाय त्रिरात्रं यावकं पिवेत् ।।१८७ खीक्षीरमाजिकं पीत्वा सन्धिन्याश्चैव गोः पयः । तस्य शुद्धिनिराशेण विड्भक्ष्याणाञ्च भक्षणे ॥१८८ विण्मूत्रभक्षणे चैव प्राजापत्यं समाचरेत् । श्वकाकोच्छिष्टगोच्छिष्टभक्षणे तु व्यहं द्विजः॥१८६