SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ ५६२ सम्वर्त्तस्मृतिः । पितृदाराः समारुह्य मातृबर्जं नराधमः । भगिनीं मातुलसुतां स्वसारं चान्यमातृजाम् | एतास्तिस्रः स्त्रियो गत्वा तप्तकृच्छ समाचरेत् ॥१५६ मातरं योऽधिगच्छेच्च सुतां वा पुरुषाधमः । भगिनीश्च निजां गत्वा निष्कृतिर्नो विधीयते ॥ १६० कुमारीगमने चैव व्रतमेतत् समादिशेत् । पशुवेश्याभिगमने प्राजापत्यं विधीयते ॥ १६१ सखिभार्य्या कुमारीश्च श्वश्रूं वा श्यालिकां तथा । नियमस्थां व्रतस्थाश्व योऽभिगच्छेत् स्त्रियं द्विजः । स कुर्य्यात् प्राकृतं कृच्छ्र धेनुं दद्यात् पयस्विनीम् ॥१६२ रजस्वलाश्च योगच्छेद्गर्भिणीं पतितां तथा । तस्य पापविशुद्धयर्थमतिकृच्छ विधीयते ॥ १६३ वेश्या व ब्राह्मणोगत्वा कृच्छ्रमेकं समाचरेत् । एवं शुद्धिः समाख्याता सम्वर्त्तस्य वचोयथा ॥ १६४ ब्राह्मणोब्राह्मणीं गत्वा कृच्छ्रणैकेण शुध्यति ॥ १६५ कथञ्चिद्ब्राह्मणीं गत्वा क्षत्रियोवैश्य एव च । गोमूत्रयावकाहारी मासेनैकेन शुध्यति ॥१६६ ब्राह्मणी शूद्रसम्पर्के कथञ्चित् समुपागते । कृच्छ चान्द्रायणं कुर्य्यात् पावनं परमं स्मृतम् १६७ चाण्डालं पुकशश्चैव श्वपाकं पतितं तथा । एतान् श्रेष्ठखियो गत्वा कुयुञ्चान्द्रायणश्रयम् ॥१६८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy