________________
अगम्यागमनवर्णनम् ।
५६१. अनस्श्रीन ब्राह्मणो हत्वा प्राणायासेन शुध्यति । अस्थिमसोबधे विप्रः किञ्चिद्दयाद्विचक्षणः ॥१४८ चाण्डाली यो द्विजो गच्छेत् कथञ्चित् काममोहितः। . त्रिभिः कृच्छ्र विशुद्धयन प्राजापत्यानुपूर्वकैः ॥१४६ पुक्कसीगमनं कृत्वा कामतोक्रामतोऽपिवा । कृच्छ चान्द्रायणं तस्य पावनं परमं स्मृतम् ॥१५० नटी सैलूषिकी श्रीव रजकी वेणुजीविनीम् । गत्वा चान्द्रायणं कुर्यात्रथा चर्मोपजीविनीम् ॥१५१ क्षत्रियामथ वैश्यां वा गच्छेद्यः काममोहितः । तस्य सान्तपनं कृच्छ् भवेत् पापापनोदकम् ।।१५२ शूद्रीं तु ब्राह्मणोगत्वा मास मासा मेव वा। गोमूत्रयावकाहारो मासाद्ध न विशुध्यति ॥१५३ विप्रस्तु ब्राह्मणी गत्वा प्राजापत्यं समाचरेत् । । क्षत्तियां क्षत्तियोगत्वा बदेव व्रतमाचरेत् ॥१५४ नरोगोगमनं कृत्वा कुर्य्याचान्द्रायणं व्रतम् १५५ गुरोदुहितरं गत्वा स्वसारं पितुरेव च। बस्या दुहितरञ्च व चरेचान्द्रायणं व्रतम् ॥१५६ मातुलानीं सनाभिश्च मातुलस्यात्मा स्नुषाम् । एता गत्वा खियो मोहात् पराकेण विशुध्यति ।।१५७ पितृव्यदारगमने भ्रातृभाऱ्यागमे तथा । . गुरुतल्पव्रतं कुर्य्यात्तस्यान्या निष्कृतिन च ।।१५८ ३६ .