SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ गोवधप्रायश्चित्तवर्णनम् । महापातकिसंयोगे ब्रह्महत्यादिभिर्नरः । तत्पापस्य विशुद्धयर्थं तस्य तस्य व्रतञ्चरेत् ॥१२५ क्षत्रियस्य बधं कृत्वा त्रिभिः कृच्छविशुध्यति । कुर्य्याच्चैवानुरूपेण त्रीणि कृच्छ्राणि संयतः ॥१२६ वैश्यहत्यान्तु संप्राप्तः कथञ्चित् काममोहितः। कृच्छातिकृच्छू कुव्वीत स नरो वैश्यघातकः ॥१२७ कुर्य्याच्द्रबधं प्राप्तस्तप्तकृच्छ्रे यथाविधि ॥१२८ गोध्नस्यातः प्रवक्ष्यामि निष्कृतिं तत्त्वतः पुमान् । गोध्नः कुर्वीत संस्थानं गोष्ठे गोरूपसंस्थिते ॥१२६ तत्रैव क्षितिशायी स्यान्मासाद्धं संयतेन्द्रियः । शक्तुयावकपिण्याकपयोदधि सकृन्नर. ॥१३० एतानि क्रमतोश्नीयाद्विजस्तु पापमोक्षकः । शुद्धयते सार्द्ध मासेन नखलोमविवर्जितः ।।१३१ स्नानं त्रिषवणं चास्य गवामनुगमस्तथा । एतत् समाहितः कुन्निरोविगतमत्सरः ।।१३२ सावित्रीञ्च जपेन्नित्यं पवित्राणि च शक्तितः । ततश्वीर्णव्रतः कुर्य्याद्विप्राणां भोजनं परम् ।।१३३ भुक्तवत्सु च विप्रेषु गाञ्च दद्यात् सदक्षिणाम् ।।१३४ व्यापादितेषु बहुषु बन्धने रोधनेऽपिवा । द्विगुणं गोव्रतं तस्य प्रायश्चित्तं विशुद्धये ।।१३५ एका चेद्बहुभिः कैश्चिद्दवाद्वथापादिता कचित् । पादं पादन्तु हत्यायाश्चरेंयुस्ते पृथक् पृथक् ।।१३६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy