SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ ५५८ ___ सम्वतस्मृतिः। गौड़ी पैष्टी तथा साध्वी विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजैः सदा ॥११५ सुरापस्तुसुरां तप्तां पिवेत्तत्पापमोक्षकः । गोमूत्रमग्निवर्णञ्च गोमयं वा तथा विधम् ।।११६ घृतञ्चैव सुतातञ्च क्षीरं वापि तथाविधम् । वत्सरं वा कणानश्नन् सर्वकामविवर्जितः ॥११७ चान्द्रायणानि वा त्रीणि सुरापी व्रतमाचरेत् । मुच्यते तेन पापेन प्रायश्चित्ते कृते सति ॥११८ एवं शुद्धिः सुरापस्य भवेदिति न संशयः। मद्यभाण्डोदकं पीत्वा पुनः संस्कारमर्हति ॥११६ स्तेयं कृत्वा सुवर्णस्य राज्ञे शंसेत मानवः। ततोमुषलमादाय स्तेनं हन्यात्ततोनृपः ।।११२० यदि जीवति स स्तेनस्ततस्तेयात् प्रमुच्यते । अरण्ये चीरवासा वा चरेब्रह्महणोबतम् ॥१२१ समालिङ्गत् स्त्रियं वापि दीप्तां कृत्वायसा कृताम् । एवं शुद्धिः कृता स्तेये साम्बर्तवचनं यथा ॥१२२ गुरुतल्पे शयानस्तु तल्पे स्वप्यादयोमये। चान्द्रायणानि वा कुर्य्याच्चत्वारि त्रीणि का द्विजः। ततोविमुच्यते पापात् प्रायश्चित्ते कृते. सति ॥१२३ एभिः सम्पर्कमायाति यः कश्चित् पापमोहितः। षण्मासादधिकं वापि पूर्वोक्तयतमाचरेत् ॥१२४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy