________________
पापानाप्रायश्चित्तवर्णनम् । अरण्ये निर्जने विप्रः पुनरासीत भुक्तवान् । एकाको चिन्तयेनित्यं मनोवाकायसंयतः ॥१०४ मूल्युश्च नाभिनन्देत जीवितं वा कथञ्चन । कालमेव प्रतीक्षेत यावद्वायुः समाप्यते ॥१०५ संसेव्य चाश्रमान् विप्रो जितक्रोधोजितेन्द्रियः । ब्रह्मलोकमवाप्नोति वेदशाखार्थविद्द्विजः ॥१०६ आश्रमेषु च सर्वेषु युक्तः प्रासनिकोविधिः। अथाभिवक्ष्ये पापानां प्रायश्चित्तं यथाविधि ॥१०७ ब्राह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः । महापातकिनस्वेते तत्संयोगी च पञ्चमः ॥१०८ ब्राह्मध्नस्तु वनं गच्छेत् कल्कवासाजटी बजी। बन्यान्येव फलान्यश्नन् सर्व कामविवर्जितः॥१०६ मिक्षार्थी व चरेग्रामं वन्यैर्यदिन जीवति । चातुर्वण्यं बरेक्षं खटाङ्गी संयवः पुमान् ॥११० मैक्षवेव समादाय बनं गच्छेततः पुनः । वनवासी सपापश्च सदाकालमतन्द्रितः ॥१११ ज्यापयन्नेव तत्पापं ब्रह्मघ्नः पापकृन्नरः । अनेन तु विधानेन द्वादशाब्दब्रतश्चरेत् ।।११२ संनियम्येन्द्रियग्रामं सर्वभूतहिते रतः। ब्रह्महत्यापनोदाय ततोमुच्येत किल्विषात् ॥११३ अतः परं सुरापस्य प्रवक्ष्यामि विनिष्कृतिम् । श्रोतुमिच्छथ भो विप्रा ! वेदशास्त्रानुरूपिकाम् ॥११४