SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ दानफलमहत्ववर्णनम्। ५५५ यस्मादन्नात् प्रजाः सर्वाः कल्पे कल्पेऽसृजत् प्रभुः। तस्मादन्नात् परं दानं न भूतो न भविष्यति ॥८२ अन्नदानात् परं दानं विद्यते न हि किञ्चन । अन्नाद्भूतानि जायन्ते जीवन्ति च न संशयः ।।८३ मृत्तिका गोशकदर्भानुपवीतं यथोत्तरम्। . दत्त्वा गुणाग्यविप्राय कुले महति जायते ॥८४ मुखवासच यो दद्यादन्तधावनमेव च । शुचिगन्धसमायुक्तो वाक्पटुः स सदा भवेत् ॥८५ पादशौचन्तु योदद्यात्तथा च गुदलिङ्गयोः । यः प्रयच्छति विप्राय शुद्धबुद्धिः सदा भवेत् ।।८६ औषधं पथ्यमाहारं स्नेहाभ्यङ्गं प्रतिश्रयम् । यः प्रयच्छति रोगिभ्यः सर्वव्याधि विवर्जितः ।।८७ गुड़मिक्षुरसञ्चैव लवणं ब्यञ्जनानि च । सुरभीणि च पानानि दत्त्वात्यन्तसुखी भवेत् ।।८८ दानश्च विविधैः सम्यक् पुण्यमेददुदाहृतम् । . विद्यादानेन. पुण्येन ब्रह्मलोके महीयते ।।८६ अन्योन्यानप्रदा विप्रा अन्योन्यप्रतिपूजकाः । अन्योन्यं प्रतिगृह्णन्ति तारयन्ति तरन्ति च ॥६० दानान्येतानि देयानि ह्यन्यानि च विशेषतः । दीनान्धकृपणादिभ्यः श्रेयस्कामेन धीमता ॥६१ ब्रह्मचारियतिभ्यश्च वपनं यस्तु कारयेत्। नखकर्मादिकञ्चैव चक्षुष्मान् जायते नरः ६२
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy