________________
सम्वतस्मृतिः। सर्वपापबिशुद्धात्मा सर्वकामसमन्वितः। वर्षाणि वसति स्वर्गे रोमसंख्याप्रमाणतः ॥७१ धेनुश्च योद्विजे दद्यादलङ्कृत्य पयस्विनीम् । कांस्यवस्त्रादिभिर्युक्तां स्वर्गलोके महीयते ॥७२ भूमिं शस्यवती श्रेष्ठां ब्राह्मणे वेदपारगे। गां दत्वार्द्ध प्रसूताश्च स्वर्गलोके महीयते ॥७३ अग्नेरपत्यं प्रथमं सुवर्ण भूवैष्णवी सूर्यसुताश्च गावः । लोकास्त्रयस्तेन भवन्ति दत्ता यः काञ्चनं गाञ्च महीञ्च दद्यात् यावन्ति शस्यमूल्यानि आरोग्याणि च सर्वशः । नरस्तावन्ति वर्षाणि स्वर्गलोके महीयते ।।७५ सर्वेषामेव दानानामेकजन्मानुगं फलम् । हाटकक्षितिगौरीणां सप्तजन्मानुगंः फलम् ।।७६ यो ददाति स्वर्णरौप्यहमशृङ्गीमरोगिणीम् । सवत्सां वाससा वीतां सुशीलाङ्गां पयस्विनीम् ॥७७ तस्यां योवन्ति रोमाणि सवत्सायां दिवं गतः । तावद्वर्षसहस्राणि स नरो ब्रह्मणोऽन्तिके ॥७८ यो ददाति वलीवईमुक्तेन विधिना शुभम् । : अव्यङ्गं गोप्रदानेन फलादशगुणं फलम् ॥ .. जलदस्तृप्तिमतुलां वितृष्य सर्ववस्तुषु । अन्नदः सुखमाप्नोति सुतृप्तः सर्ववस्तुषु ॥८० सर्वेषामेव दानानामन्नदानं परं स्मृतम् । सर्वेषामेव जन्तूनां यतस्तज्जीवितं. फलस् ।।८१
.0