SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ ५५२ सम्वतस्मृतिः। श्रोत्रियाय कुलीनाय त्वर्थिने च विशेषतः। यहानं दीयते भक्त्या तद्भवेत्तु महत् फलम् ।।४६ आहूय शीलसम्पन्न श्रुतेनाभिजनेन च । शुचिवित्रं महाप्राज्ञो हव्यकव्येषु पूजयेत् ॥५० नानाविधानि द्रव्याणि रसवन्तीप्सितानि च । श्रेयस्कामेन देयानि स्वर्गमक्षयमिच्छता ॥५१ वस्त्रदाता सुवेशः स्याद्रौप्यदो रूपमेव हि । हिरण्यदो महञ्चायुर्लभेत्तेजश्च मानवः ।।५२ भूताभयप्रदानेन सर्वकामानवाप्नुयात् । दीर्घमायुश्च लभते सुखी चैव तथा भवेत् ॥५३ धान्योदकप्रदायी च सर्पिर्दः सुखमश्नुते । अलङ्कृत्य त्वलङ्कारं दत्त्वा प्राप्नोति तत्फलम् ॥५४ फलमूलानि विप्राय शाकानि विविधानि च । सुरभीणि च पुष्पाणि दत्त्वा प्राज्ञश्च जायते ॥५५ ताम्बूलं चैव यो दद्याब्राह्मणेभ्यो विचक्षणः । मेधावी सुभगः प्राज्ञो दर्शनीयश्च जायते ॥५६ पादुकोपानही छत्रा शयनान्यासनानि च । विविधानि च यानानि दत्त्वा दिव्यगतिर्भवत् ॥५७ दद्याच्च शिशिरे त्वग्नि बहुकाष्ठं प्रयमतः । कायाग्निदीप्तिं प्राज्ञत्वं रूपसौभाग्यमाप्नुयात् ।।५८ औषधं स्नेहमाहारं रोगिणां रोगशान्तये । दत्त्वा स्याद्रोगरहितः सुखी दीर्घायुरेव च ॥५६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy