________________
५५१
अशौचवर्णनम् । प्रेतस्य तु जलं देयं स्नात्वा च गोत्रजैवहिः । प्रथमेऽह्रि तृतीये च सप्तमे नवमे तथा ॥३६ चतुर्थे सञ्चयं कुर्यात् सर्वैस्तु गोत्रजैः सह । ततः सञ्चयनादूर्ध्वमङ्गस्पर्शी विधीयते ॥४० चतुर्थेऽहनि विप्रस्य षष्ठे वै क्षत्रियस्य च । अष्टमे दशमे चैव स्पर्शः स्याद्वैश्यशूद्रयोः ॥४१ जातस्यापि विधिदृष्ट एष एव मनीषिभिः। दशरात्रेण शुध्यन्ति वैश्यदेवविवर्जिताः॥४२ पुगे जाते पितुः स्नानं सचैलन्तु विधीयते । माता शुध्येहशाहेन स्नातस्य स्पर्शनं पितुः ।।४३ होमस्तत्र तु कर्त्तव्यः शुष्कानेन फलेन च । पञ्चयज्ञविधानन्तु न कायं मृत्युजन्मनोः ॥४४ दशाहात्तु परं सम्यग् विप्रोऽधीयीत धर्मवित् । दानश्च विधिना देयमशुभान्तकरं शुभम् ।।४५ यद्यदिष्टतमं लोके यच्चापि दयितं गृहे। तत्तदगुणवते देयं तदेवाक्षयमिच्छता ॥४६ : नानाविधानि द्रव्याणि धान्याति सुबहूनि च । समुद्रनानि रत्नानि नरो विगतकल्मषः । दत्त्वा विप्राय महते प्राप्नोति महतीं श्रियम् ।।४७ गन्धमाभएवं माल्यं यः प्रयच्छति धर्मवित् । स सुगन्धः सदा हष्टो यत्र तत्रोपजायते ॥४८