SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ सम्वतस्मृतिः। भिक्षाटनमतः कृत्वा स्वस्थो छकात्मनः श्रुतिः।। अनात्वा चैव यो भुङ्क्ते गायत्र्यष्टशतं जपेत् ॥२९ शूद्रहस्तेन योऽश्नीयात् पानीयं बा पिवेत् कचित् । बहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥३० हुकपर्युषितोच्छिष्टं भुक्तान्नं केशदूषितम् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥३१ शूद्राणां भाजने भुक्ता भुक्ता वा भिन्नभाजने। अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥३२ दिवा स्वपिति यः स्वस्थो ब्रह्मचारी कथञ्चन । तात्वा सूर्यं समभ्यर्च गायत्र्यष्टशतं जपेत् ॥३३ एष धर्मः समाख्यातः प्रथमाश्रमवासिनाम् । एवं संवर्तमानस्तु प्राप्नोति परमां गतिम् ॥३४ अथ द्विजोऽभ्यनुज्ञातः सवर्णा स्त्रियमुद्हेत् । कुले महति सम्भूतो लक्षणैश्च समन्विताम् । ब्राह्मणैव विवाहेन शीलरूपगुणान्विताम् ॥३५ पञ्चयज्ञ विधानश्च कुर्य्यादहरहर्द्विजः। न हापयेत् कचिद्विप्रः श्रेयस्कामः कदाचनः ॥३६ हानि तस्य तु कुर्वीत सदा मरणजन्मनोः ॥३७ विप्रो दशाहमासीत दानाध्ययनवर्जितः । क्षत्रियों द्वादशाहेन वैश्यः पञ्चदशैष तु। .... शूद्रः शुध्यति मासेन सम्बत वचनं यथा ॥३८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy