________________
५४८
सम्वतस्मृतिः। तिष्ठन् पूर्वा जपं कुर्याद्ब्रह्मचारी समाहितः । आसीनः पश्चिमा सन्ध्यां जपं कुर्य्यादतन्द्रितः ।।७ अग्निकार्य ततः कुर्य्यान्मेधावी तदनन्तरम् । ततोऽधीयीत वेदन्तु वीक्षमाणो गुरोर्मुखम् ॥८ प्रगवं प्राक् प्रयुञ्जीत व्याहृतिस्तदनन्तरम् । गायत्रीञ्चानुपूर्वेण ततोवेदं समारभेत् ।। हस्तौ सुसंयतौ काय्यौँ जानुभ्यामुपरिस्थितौ । गुरोरनुमतं कुर्यात् पठन्नान्यमतिर्भवेत् ॥१० सायं प्रातस्तु भिक्षेत ब्रह्मचारी सदा व्रती । निवेद्य गुरवेऽश्नीयात् प्राङ्मुखो वाग्यतः शुचि ॥११ सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम् । नान्तरा भोजनं कुर्य्यादग्निहोत्रसमो विधिः ।।१२ आचम्यैव तु भुञ्जीत भुक्ता चोपस्पृशेद्विजः । अनाचान्तस्तु योऽश्नीयात् प्रायश्चित्तीयते तु सः॥१३ अनाचान्तः पिवेद्यस्तु योऽपिवा भक्षयेद्विजः। गायत्र्यष्टसहस्रन्तु जपं कृत्वा विशुध्यति ॥१४ अकृत्वा पादशौचन्तु तिष्ठन् मुक्तशिखोऽपिवा । विना यज्ञोपवीतेन आचान्तोऽथ शुचिर्द्विजः ॥१५ आचामेद् ब्राह्मतीर्थेन सोपवीती ह्युदण्मुखः । उपवीती द्विजोनित्यं प्राङ्मुखो वाग्यतः शुचिः॥१६ अले जलस आचामेत् स्थलाचान्सोवहिः शुचिः । वहिरन्तस्थ आषान्त एवं शुद्धिमवाप्नुयात् ।।१०