________________
विष्णुस्मृतिः। नारीषु नित्यं सुविभूषितासु पतिव्रतासु प्रियवादिनीषु । अमुक्तहस्तासु सुतान्वितासु सुगुप्तभाण्डासु बलिप्रियासु ॥ सम्मृष्टवेश्मासु जितेन्द्रियासु कलिव्यपेतासु बिलोलुपासु । धर्मव्यपेक्षासु दयान्वितासु स्थिता सदाहं मधुसूदने तु॥
इति वैष्णवे धर्मशास्त्रे नवनवतितमोऽध्यायः ।।
॥ अथ शततमोऽध्यायः ॥ धर्मशास्त्रमिदं श्रेष्ठं स्वयं देवेन भाषितम् । ये द्विजाधारयिष्यन्ति तेषां स्वर्गे गतिः परा॥ इदं पवित्रं मङ्गल्यं स्वर्गमायुष्यमेव च । ज्ञानञ्चैव यशस्यं च धनसौभाग्यबर्द्धनम् ॥ अध्येतव्यं धारणीयं श्राव्यं श्रोतव्यमेव च । श्राद्धषु श्रावणीयं च भूतिकामैनरैः सदा । इदं रहस्यं परमं कथितं बसुधे ! तव ॥ मया प्रसन्नेन जगद्धितार्थं सौभाग्यमेतत् परमं रहस्यम् । दुःस्वप्ननाशं बहुपुण्ययुक्त शिवालयं शाश्वतधर्मशस्त्रम् ॥
इति वैष्णवे धर्मशास्त्रे शततमोध्यायः॥
|| समाप्ता चेयं श्रीभगवद्विष्णुस्मृतिः ॥
ॐ तत्सत् ।