________________
५४४
विष्णुम्मृतिः।
[नवनवति
॥ अथ नवनवतितमोऽध्यायः ।।
दृष्ट्वा श्रियं देवदेवस्य विष्णो हीत पादां तपसा ज्वलन्तीम् । सुतप्तजाम्वूनदचारुवर्णा पप्रच्छ देवीं वसुधाप्रहृष्टा ।।
उन्निद्रकोकनदचारुकरे वरेण्ये । उन्निद्रकोकनदनाभि गृहीतपादे ।। उन्निद्रकोकनदसद्मसदास्थितीते ।
उन्निद्रकोकनदमध्यसमानवणे ॥ नीलाञ्जनेत्रे तपनीयवर्णे शुक्लाम्बरे रत्नविभूषिताङ्गि । चन्द्रानने सूर्यासमानभासे महाप्रभावे जगतःप्रधाने ।। त्वमेव निद्रा जगतः प्रधाना लक्ष्मी तिः श्रीविरतिर्जया च ! कान्तिःप्रभा कीतिरथो विभूतिः सरस्वती वागथ पावनी च । स्वधा तितिक्षा वसुधा प्रतिष्ठा स्थितिःसुदीक्षा च तथा सुनीतिः । ख्यातिविशाला च तथानसूया स्वाहा च मेधा च तथैव बुद्धिः । आक्रम्य सन्तुि यथा त्रिलोकीं तिष्ठत्ययं देववरोऽसिताङ्गे। तथा स्थिता त्वं वरदे तथापि पृच्छाम्यहंते वसतिं बिभूत्याः॥ इत्येवमुक्तां वसुधां वभाष लक्ष्मीस्तदा देवरवाग्रतस्था। सदा स्थिताहं मधुसूदनस्य देवस्य पार्श्वे तपनीयवर्णे। अस्याज्ञयायं मनसा स्मरामि श्रियायुतं तं प्रवदन्ति सन्तः । संस्मारणे वाप्यथ यत्न चाहं स्थिता सदा तच्छणुलोकधात्रि ॥ वसाम्यथा: च निशाकरे च तारागणाढ्य गगने विमेधे । मेघे तथालम्बपयोधरे च शक्रायुधाढ्य च तडित्प्रकाशे ।।