SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ ५३८ विष्णुस्मृतिः। [षणनवतिसत्यपूतं वदेत् । मनःपूतं समाचरेत् ।।.. मरणं नाभिकामयेत जीवितश्च । अतिवादास्तितिक्षेत । न कश्चनावमन्येत। निराशीः स्यात्। निर्नमस्कारः। वास्यैकं तक्षतो वाहु चन्दनेनैकमुक्षतः । नाकल्याणं च कल्याणं तयोरपि च चिन्तयेत् ।। प्राणायामधारणाध्याननित्यः स्यात् । संसारस्यानित्यतां पश्येत् । शरीरस्याशुचिभावम् । जरया रूपविपर्ययम् । शारीरमानसागन्तुकव्याधिभिश्वोपतापम् । सहजैश्च । नित्यान्धकारे गर्भे वसतिं मूत्रपुरीषमध्ये च । तत्र च शीतोष्गदुःखानुभवनम् । जन्मसमये योनिसङ्कटनिर्गमान्महद्दुखानुभवनम् । बाल्ये मोहं गुरुपरवश्यताम्। अध्ययनादनेकक्लेशम् । यौवने च विषयप्राप्तावमार्गेण तदवाप्तौ विषयसेवनान्नरके पतनम् । अप्रियैर्वसतिं प्रियश्च विप्रयोगम् । नरकेषु च सुमहदुःखम्। संसारसंसृतौ तिर्यग्योमिषु च । एवमस्मिन् सततपापिनि संसारे न किञ्चित् । यदपि किञ्चिदुःखापेक्षया सुखसंज्ञं तदप्यनित्यम् । तत्सेवाशक्तावलाभेनवा महदुःखम् । शरीरं चेदं सप्तधातुकं पश्येत् वसारुधिरपांसालिमेदोमना
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy