________________
५३६
तमोऽध्यायः] संन्यासवर्णनम् ।
शुक्रात्मकं चाबनद्धं दुर्गन्धि च मलायतनं सुखशतैरपि वृत्तं विकारि प्रयत्नाद्धृतमपि विनाशि कामक्रोधलोभमोहमदमात्सर्यास्थानं पृथिव्यप्तेजोवाय्वाकाशात्मकं अस्थिशिराधमनिश्नायुयुतं रजस्वलं षट् त्वक्पेशि अस्थ्नां त्रिभिः शतैः षष्ठ्यधिकैर्धाय॑माणम् । तेषां विभागः । सूक्ष्मैः सह चतुःषष्टिदशनाः, विंशतिर्नखाः, पाणिपादशलाकाश्च, षष्टिरङ्गुलीनां पाणि, द्वे पार्योः, चतुष्टयं गुल्फेषु, चत्वार्य्यरत्न्योः , चत्वारि जङ्घयोः, द्वे द्वे, जानुकपोलयोः द्वे द्वे अक्षतालूषकश्रोणिफलकेषु, भगास्थ्येकं, पृष्ठास्थि पञ्चचत्वारिंशद्भागं, पञ्चदशास्त्रीनि ग्रीवा, जान्वेक, तथा हनुः, तन्मूले च द्वे, द्वे ललाटाक्षिगण्डे, नासा घनास्थिका, अर्बुदैः स्थानकैश्च सार्द्ध द्विसप्ततिः पार्श्वकाः, उरः सप्तदश, द्वौ शङ्खकौ, चत्वारि कपालानि शिरश्चेति । शरीरेऽस्मिन् सप्तशिराशतानि । नव स्नायुशतानि। धमनीशते द्वे। पञ्चपेशीशतानि । क्षुद्रधमनीनामेकोनत्रिशल्लक्षाणि नवशतानि षट्पञ्चाशद्धमन्यः। लक्षत्रयं श्मश्रुकेशकूपानाम् । सप्तोत्तरं मर्मशतम् । सन्धिशते द्वे। चतुःपञ्चाशद्रोमकोटयः सप्तषष्टिश्च लक्षाणि । नाभिरोजोगुदं शुक्र शोणितं शङ्खको मूर्दा कण्ठोहृदयञ्चेति प्राणायसनानि । बाहुद्वयं जङ्घाद्वयं मध्यं शीर्षमिति षडङ्गानि । वसा क्या अवहननं नाभिः क्लोमो यकृत् प्लीहाक्षुद्रान्त्रं बुकी वस्तिः पुरीषाधानमामाशयोहृदयं स्थूलान्त्रं