SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ ५३७ तमोऽध्यायः] संन्यासवर्णनम् । यवान्नं पक्षान्तयोर्खा सकृरश्नीयात् । चान्द्रायणैर्वा वर्तेत । अश्मः । दन्तोलूखलिको वा ।। तपोमूलमिदं सवं दैवमानुषजं जगत् । तपोमध्यं तपोऽन्तञ्च तपसा च तथावृतम् ।। यदुश्चरं यदुरापं यदुरं यच्च दुष्करम् । सर्व तत्तपसा साध्यं तपोहि दुरतिक्रमम् ।। इति वैष्णवे धर्मशास्त्रे पश्चनवतितमोऽध्यायः॥ ००० अथ त्रिधाश्रमेषु पक्ककषायः प्राजापत्यामिष्टिं कृत्वा सर्व वेई दक्षिणां दत्वा प्रव्रज्याश्रमी स्यात् । आत्मन्यग्नीनारोप्य भिक्षार्थं ग्राममियात् । सपागारिकं भैक्ष्यमादद्यात् । अलाभे न व्यथेत । न भिक्षुकं भिक्षेत। भुक्तवति जनेऽतीते पात्रसम्पाते भक्ष्यमादद्यात् । मृण्मये दारुपाने लावपात्रे वा । तेषाश्च तस्याद्भिः शुद्धिः स्यात् । अभिपूजितलाभादुद्विजेत। शून्यागारनिकेतनः स्यात् । वृक्षमूलनिकेतनो वा। न ग्रामे द्वितीयां रात्रिमावसेत् । कौपीनाच्छादनमात्रमेव वसनमादद्यात् । दृष्टिपूतं न्यसेत् पादम्। वस्त्रपूतं जलमादद्यात् ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy