________________
५३६
विष्णुस्मृतिः। [चतुर्नवति॥ अथ चतुर्नवतितमोऽध्यायः ॥ गृही वलीपलितदर्शने वनाश्रयो भवेत् । अपत्यस्य चापत्यदर्शनेन वा। पुगेषु भार्या निक्षिप्य तयानुगम्यमानो वा।। तत्राप्यग्नीनुपचरेत् । अफालकृष्णेन पञ्चयज्ञान्न हापयेत् । स्वाध्यायं च न जह्यात् । ब्रह्मचर्य पालयेत् । चर्मचीरवासाः स्यात् । जटाश्मश्रुलोमनखांश्च विभृयात् । त्रिषवणस्नायी स्यात् । कपोतवृत्तिर्मासनिचयः सम्बत्सरनिचयो वा। सम्वत्सरनिचयो पूर्वनिचितमाश्वयुज्यां जह्यात् ।। प्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् । पुटेनैव पलाशेन पाणिना शकलेन वा। ॥इति वैष्णवे धर्मशास्त्रे चतुर्नवतितमोऽध्यायः।।
॥ अथ पञ्चनवतितमोऽध्यायः ॥ वानप्रस्थस्तपसा शरीरं शोषयेत् । प्रीष्मे पञ्चतपाः स्यात् । आकाशशायी प्रावृषि। आर्द्रवासा हेमन्ते। नक्काशी स्यात् । एकान्तरद्वयन्तरत्र्यन्तराशी वा स्यात् । पुष्पाशी। फलाशी। शाकाशी। पर्णाशी। मूलाशी ।