SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ ५३६ भ्यायः] दानफलवर्णनम् । विविक्तं कृत्वा गन्धर्वलोकमाप्नोति । पुष्पप्रदानेन श्रीमान् भवति । अनुलेपनप्रदानेन कीर्तिमान् भवति । दीपप्रदानेन चक्षुष्मान् सर्वतोज्वलश्च । अन्नप्रदानेन बलवान् । धूपप्रदानेनोद्ध्वं गच्छति । देवनिर्माल्यापनयनाद्गोप्रदानफलमाप्नोति । देवायतनमार्जनात्तदुपलेपनाद्ब्राह्मणोच्छिष्टमार्जनात् पादादिशौचोदकल्पपरिचरणाञ्च ॥ कूपारामतड़ागेषु देवतायतनेषु च । पुनः संस्कारकर्ता च लभते मौलिकं फलम् ॥ इति वैष्णवे धर्मशास्त्रे एकनवतितमोऽध्यायः॥ ॥ अथ द्विनवतितमोऽध्यायः ॥ सर्वदानाधिकमभयप्रदानम् । वत्प्रदानेनाभीप्सितं लोकमाप्नोति भूमिप्रदानेन च । गोचर्ममात्रमपि भुवं प्रदाय सर्वपापेभ्यः पूतो भवति । गोप्रदानेन स्वर्गलोकमाप्नोति। दशधेनुप्रदो गोलोकान् । शतधेनुप्रदो ब्रह्मलोकान् । सुवर्णशृङ्गी रौप्यखुरी मुक्तालाकुलां कास्योपदोहां वनोत्तरीयां दत्त्वा धेनुरोमसंख्यानि वर्षाणि स्वर्गलोकमाप्नोति ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy