SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ ध्यायः दानफलवर्णनम् । विप्राय दत्त्वा दीप्नानिर्भवति । कार्तिकी कृत्तिकायुता चेत्तस्यां सितमुक्षाणमन्यवयं वा । शशाकोदये सर्वशस्यरत्नगन्धोपेतं दीपमध्ये ब्राह्मणाय दत्त्वा । कान्तारभयं नश्यति । वैशाखशुक्लतृतीयायामुपोषितोऽक्षतर्वासुदेवमभ्यर्च्य तानेव हुत्वा दत्त्वा च सर्वपापेभ्यः पूतो भवति । यञ्च तस्मिन्नहनि प्रयच्छति दतक्षय्यमाप्नोति । पौष्यां समतीतायां कृष्णपक्षद्वादश्यां सोपवासस्तिलैः स्नातस्तिलोदकं दत्त्वा तिलैर्वासुदेवमभ्यर्च्य तानेव हुत्त्वा दत्त्वा भुक्ता च पापेभ्यः पूतो भवति । माध्यां समतीतायां कृष्गद्वादश्यां सोपवासः श्रवणं प्राप्य वासुदेवाग्रतोमहावत्तिद्वयेन दीपद्वयं दद्यात् । दक्षिणपार्वे महारजनरक्तन समग्रेण वाससा घृततुला मष्टाधिका दत्त्वा वामपार्वे तिलतैलतुला साष्टां दत्त्वा श्वेतेन समप्रेण वाससा। एतत्कृत्वा कृतकृयो यस्मिन् राष्ट्रऽभिजायते यस्मिन् देशे यस्मिन् कुले स तत्रोज्ज्वलो भवति । आश्विनं सकलं मासं ब्राह्मणेभ्यः प्रत्यहं घृतं प्रदद्याश्विनी प्रीणयित्वा रूप भाग्भवति । तस्मिन्नेव मासि प्रत्यहं गोरसैब्राह्मणान् भोजयित्वा राज्यभाग्भवति। प्रतिमासं रेवतीयुते चन्द्रमसि मधुघृतयुतं रेवतीप्रीत्य ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy