________________
विष्णुस्मृतिः। [नवतितमोऽअनेन कर्मणा रूपसौभाग्यवानभिजायते। पौषीचेत् पुष्ययुक्ता स्यात्तस्यां गौरसर्षपकल्कोद्वर्तितशरीरो गव्यघृतपूर्णकुम्भेनाभिषिक्तः सव्वौषधिभिःसर्वगन्धैः सर्ववीजैश्च स्नातो घृतेन भगवन्तं वासुदेवंस्नापयित्वा गन्धपुष्पधूपदीपनैवेद्यादिभिश्वाभ्यर्च्य वैष्णवैःशाकैर्वार्हस्पत्यैश्च मन्त्रैः पावके हुत्वा ससुवर्णेन घृतेनब्राह्मणान् स्वस्ति वाचयेत् । वासोयुगं कों दद्यात् । अनेन कर्मणा पुष्यते । माघी मघायुता चेत्तस्यां तिलैः श्राद्धं कृत्वा पूतो भवति । फाल्गुनी फल्गुनीयुता चेत्स्यात्तस्यां ब्राह्मणाय सुसंस्कृतंस्वास्तीणं शयनं निवेद्य भार्या मनोज्ञा रूपवती द्रविणवतीञ्चाप्नोति। नार्यपि भर्तारम् । चैत्री चित्रायुता स्यात्तस्यां चित्रवनप्रदानेन सौभाग्यमाप्नोति । वैशाखी विशाखायुता चेत्तस्यां ब्राह्मणसप्तकं क्षौद्रयुक्तस्तिलैःसन्तर्प्य धर्मराजानं प्रीणयित्वा पापेभ्यः पूतो भवति । ज्येष्ठी ज्येष्ठायुता चेत्तस्यां छत्रोपानहप्रदानेन गवाधिपत्यंप्राप्नोति। आषाढ्यामाषाढायुक्तायामन्नपानदानेनतदेवाक्षय्यमाप्नोति। श्रावण्यां श्रवणयुक्तायां जलधेनु सान्नां वासोयुगाच्छादितादत्त्वा स्वर्गमाप्नोति। प्रौष्ठपद्यां प्रौष्ठपदायुक्तायां गोदानेन सर्वपापविनिर्मुक्तो भवति । आश्वयुज्यामश्विनीगते चन्द्रमसि घृतपूर्ण भाजनं सुवर्णयुतं