________________
तमोऽध्यायः] श्राद्धवर्णनम् ।
५२५ ॥ अथ चतुरशीतितमोध्यायः ॥ न म्लेच्छविषये श्राद्धं कुर्यात् । न गच्छेत्म्लेच्छविषयम् । परनिपानेष्वपः प्रीत्वा तत्साम्यमुपगच्छीति ॥
चातुर्वर्णव्यवस्थानं यस्मिन् देशे न विद्यते । स म्लेच्छदेशो विज्ञेय आर्यावर्त्तस्ततः परः॥ इति वैष्णवे धर्मशास्त्रे चतुरशीतितमोऽध्यायः॥
॥ अध पञ्चांशीतितमोऽध्यायः ॥
अथ पुष्करेषु श्राद्धम्। जप्यहोमतपसि च। पुष्करे स्नानमात्रतः सर्वपापेभ्यः पूतो भवति । एवमेव गयाशीर्षे अक्षयवटे अमरकण्टकपर्वते वराहपर्वते यत्र कचन नर्मदातीरे यमुनातीरे गङ्गायांविशेषतः कुशावर्त विल्वके नीलपर्वते कनखले कुजाम्रभूगुतुङ्गे केदारे महालये नडन्तिकायां सुगन्धायांशाकम्भा फल्गुतीर्थे महागङ्गायां त्रिहलिकाश्रमेकुमारधारायां प्रभासे यत्र कचन सरस्वत्यां विशेषतः ।
गङ्गाद्वारे प्रयागे च सङ्गासागरसङ्गमे । सततं नैमिषारण्ये वाराणस्या विशेषतः॥ अगस्त्याने कायाश्रमे कौशिक्यां सरयूतीरे शोणस्य