________________
५२४
विष्णुस्मृतिः। [दूषशीतिननुष्ठान् राजसेवकान् नमान् पितृमातूगुर्बनिस्वाध्यायत्यागिनश्चेति ॥ ब्राह्मणापसदा ह्येते कथिताः पङ्क्तिदूषकाः । एतान् विवर्जयच्छेषाच्छ्राद्धकर्मणि पण्डितः ।। इति वैष्णवे धर्मशास्त्रे द्वचशीतितमोऽध्यायः ।।
॥ अथ व्यशीतितमोऽध्यायः॥
अथ पतितपावनाः। त्रिणाचिकेतः पञ्चाग्निज्येष्ठसामगो वेदपारगो वेदाङ्गस्याप्येकस्य पारगः पुराणेतिहासव्याकरणपारगो धर्मशास्त्रस्याप्येकस्य पारगस्तीर्थपूतो यज्ञपूत स्तपःपूतः सत्यपूतोमन्त्रपूतो गायत्रीजपनिरतो ब्रह्मदेयानुसन्तानस्त्रिसुपर्णोजामाता दौहित्रश्चेति । विशेषेण च योगिनः। अत्र पितृगीता गाथा भवति ।
अये स स्यात् कुळेऽस्माकं भोजयेद्यस्तु योगिनम् । वित्रं श्राद्ध प्रयत्नेन येन तृप्यामहे क्यम् ॥ इति वैष्णवे धर्मशास्त्रे त्र्यशीतितमोऽध्या।