________________
५२१
तमोऽध्यायः] श्राद्धवर्णनम् ।
अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः । प्रावृट्काले ऽसिते पक्षे त्रयोदश्यां समाहितः ॥ मधूत्कटेन यः श्राद्धं पायसेन समाचरेत् । कार्तिकं सकलं मासं प्राक्छाये कुञ्जरस्य च ॥ इति वैष्णवे धर्मशास्त्र अष्टसप्ततितमोऽध्यायः॥
॥ अथ एकोनाशीतितमोऽध्यायः ॥ अथ न नक्तं गृहीतेनोदकेन श्राद्धं कुर्य्यात् । कुशाभावे कुशस्थाने काशान् दुर्वा वा दद्यात् । वाससोऽर्थेकार्पासोत्थं सूत्रम् ।। दशां विवर्जयेद् यद्यप्याहतवस्त्रजा स्यात् । उपगन्धीन्यगन्धीनि कण्टकिजातानि रक्तानि च पुष्पाणि । शुक्लानि सुगन्धीनि कण्टकिजातान्यपि जलजानि रक्तान्यपिदद्यात्। वसां मेदश्च दीपार्थे न दद्यात् । घृतं तैलं वा दद्यात्। जीवजं सर्वधूपार्थे न दद्यात् । मधुकृतसंयुक्तं गुग्गुलु दद्यात्।। चन्दनकुमकर्पूरागुरुपद्मकान्यनुलेपनार्थे । न प्रत्यक्षलवणं दद्यात् हस्तेन च घृतव्यञ्जनादि । सैजसानि पात्राणि दद्यात् । विशेषतो राजतानि ।