________________
५१६
तमोऽध्यायः] श्राद्धवर्णनम् ।
एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः। श्राद्धमेतेष्वकुणिोनरकं प्रतिपद्यते ॥ इति वैष्णवे धर्मशास्त्रे षट्सप्ततितमोऽध्यायः॥
॥ अथ सप्तसप्ततितमोऽध्यायः आदित्यसंक्रमणं विषुवद्वयं विशेषेणायनद्वयंव्यतीपातोजन्मर्भमभ्युदयश्च । एतांस्तु श्राद्धकालान् वै काम्यानाह प्रजापतिः । श्राद्धमेतेषु यहतं तदानन्त्याय कल्पते। .. सन्ध्यारात्र्योन कर्त्तव्यं श्राद्धं खलु विचक्षणैः । तयोरपि च कर्त्तव्यं यदि स्याद्राहुदर्शनम् ॥ . राहुदर्शनदत्तं हि श्राद्धमाचन्द्रतारकम् । गुणवत् सर्वकामीयं पितृणामुपतिष्ठते ॥ इति वैष्णवे धर्मशास्त्रे सप्तसप्ततितमोऽध्यायः॥
०००००
॥ अथ अष्टसप्ततितमोऽध्यायः ॥ सततमादित्येऽह्रि श्राद्धं कुर्वन्नारोग्यमाप्नोति । सौभाग्यं चान्द्रे। समरविजयं कौजे ।