________________
तमोऽध्यायः] श्राद्धवर्णनम् ।
तथास्त्विति बेयुः। अन्नच नोबहु भवेदतिथींश्च लभेमहि । याचितारश्च नः सन्तु मा च याचिष्म कञ्चन । इत्येताभ्यामाशिषः प्रतिगृह्य। वाजेवाजे इति ततो ब्राह्मणांश्च विसर्जयेत् । पूजयित्वा यथान्यायमनुव्रज्याभिवाद्य च ॥ इति वैष्णवे धर्मशास्त्रे त्रिसप्ततितमोऽध्यायः॥
॥ अथ चतुःसप्ततितमोऽध्यायः ॥ अष्टकासु दैवपूवं शाकमांसापूपैः श्राद्धं त्वन्वष्टकास्वष्टकावद्वह्रौ दैवपूर्वमेवं हुत्वा मात्रे पितामहँ प्रपितामयै च पूर्ववद्ब्राह्मणान् भोजयित्वा दक्षिणाभिश्चाभ्यच्चानुब्रज्य विसर्जयेत् । ततः कर्षः कुर्यात् । तन्मूले प्रागुदगग्न्युपसमाधानं कृत्वा पिण्डनिर्वपणम् । कर्तत्रयमूले पुरुषाणां कर्षत्रयमूले स्त्रीणाम् । पुरुषकर्षत्रयं सान्नेनोदकेन पूरयेत् । स्त्रीकर्षत्रयं सान्नेन पयसा। दना मांसेन पयसा च प्रत्येकं कर्षत्रयं पूरयित्वाजपेद्भवतीभ्योऽस्तु चाक्षरम् । इति वैष्णवे धर्मशास्त्रे चतुःसप्ततितमोऽध्यायः॥
-०%80