________________
तमोऽध्यायः] श्राद्धवर्णनम् ।
५१५ सुस्नातान स्वाचान्तान् यथाभूयो विद्याक्रमेण कुशोत्तरेष्वासनेषूपवेशयेत्। द्वौ दैवे प्राङ्मुखौ त्रीश्च पित्र्ये उदङ्मुखान् एकैकमुभयत्र वेति । आमश्राद्धषु काम्येषु च प्रथम पञ्चकेनाग्नि हुत्वा । पशुश्राद्धषु मध्यमपञ्चकेन। अमावास्यासूत्तमपञ्चकेन । आग्रहायण्या उर्द्ध, कृष्णाष्टकासु च क्रमेणैव प्रथममध्यमोत्तमपञ्चकैः। अन्वष्टकासु च । ततोब्राह्मणानुज्ञातः पितृनावाहयेत्। अपयान्त्वसुरा इति श्राद्धविघ्नकर्तृन् । यातुधानानपसार्या तिलर्यातुधानानां विसर्जनं कृत्वा । एत पितरः सर्वस्तिान् श्रमाय सन्त्वेतद्वः पितर इत्यावाहनंकृत्वा कुश तिलमिश्रेण गन्धोदकेन यस्तिष्ठन्त्यमृतागावितियन्मेमातेति च पाद्य निवर्त्य निवेद्याध्यं कृत्वा निवेद्य- .. चानुलेपनं कृत्वा कुशतिलवस्त्रपुष्पालङ्कारधूपदीपैर्यथाशक्त्याविप्रान् समभ्यर्च वृतष्टुत्मन्द्रमादायादित्यारुद्रावसव इतिबीक्ष्याग्नौ करवाणीत्युक्ता तत्र विप्रैः कुर्वित्युक्ते आहुतित्रयंदद्यात् । ये मामकाः पितर एतद्वः पितरोऽयं यज्ञे इति चहविरनुमन्त्रणं कृत्वा यथोपपन्नेषु पात्रेषु विशेषाद्रजतमयेष्वन्नंनमो विश्वेभ्यो देवेभ्य इत्यन्नमादौ प्रामुखयोनिवेदयेत् । पित्रे पितामहाय प्रपितामहाय च नामगोत्राभ्यामुदङ्मुखषु । तददत्सु ब्राह्मणेषु यन्मे प्रकामा अहोरात्रैर्यद्वाक्रव्यादिति जपेत् । इतिहासपुराणधर्मशाखाणि चेति ।