SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ ५१४ विष्णुस्मृतिः। [एकसप्ततिसर्वलक्षणहीनोऽपि यः सदाचारवान्नरः। श्रद्धधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ इति वैष्णवे धर्मशास्त्रे एकसप्ततितमोऽध्यायः ।। ॥ अथ द्विसप्ततितमोऽध्यायः ।। दमयमेन तिष्ठत्। . दमश्चेन्द्रियाणां प्रकीर्तितः दान्तस्यालं लोकः परश्च । नादान्तस्य क्रिया काचित् समृध्यति ।। दमः पवित्रं परमं मङ्गल्यं परमं दमः। दमेन सर्वमाप्नोति यत्किञ्चित्मनसेच्छति ।। दशार्द्धयुक्तेन रथेन याति मनोवशेनार्यपथानुवर्तिना। तञ्चेद्रथं नापहरन्ति वाजिनस्तथागतं नावजयन्ति शत्रवः ।। आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी। इति वैष्णवे धर्मशास्त्रे द्विसप्ततितमोऽध्यायः॥ ॥ अथ त्रिसप्ततितमोऽध्यायः ।। अथ श्राद्ध प्सुः पूर्वद्युाह्मणानामन्त्रयेत् । द्वितीयेऽहिशुक्लपक्षस्य पूर्वाह्ने कृष्णपक्षस्थापराह्ने विप्रान्
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy