________________
वायः] अतिथिमहत्ववर्णनम् । ५०७ ब्रह्मणे ब्रह्मपुरुषेभ्य इतिमध्ये। ऊर्द्धमाकाशाय । दिवाचरेभ्यो भूतेभ्य इतिस्थाण्डिले। नत्तचरेभ्य इतिनक्तम् । ततो दक्षिणाग्रेषु दर्भेषु पित्रे पितामहाय प्रपितामहायमात्रे पितामी प्रपितामझै स्वनामगोत्राभ्याञ्चपिण्डनिळपणं कुर्य्यात्। पिण्डानान्चानुलेपनपुष्पधूपनैवेद्यादि दद्यात् । उदककलशमुपनिधाय स्वस्त्ययनं वाचयेत्। श्वकाकश्वपचानां भुवि निर्वपेत्। भिक्षाञ्च दद्यात् । अतिथिपूजने च परं फलमधितिष्ठेत् । सायमतिथिं प्राप्तं प्रयत्नेनार्चयेत् । अनाशितमतिथिं गृहे न वासयेत् । यथा वर्णानां ब्राह्मणः प्रभुर्यथा स्त्रीणां भर्ता तथागृहस्थस्यातिथिः। तत्पूजायां स्वर्गमाप्नोति ॥
अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्त्तते । तस्मात् सुकृतमादाय दुष्कृतन्तु प्रयच्छति ।। एकरात्रं हि निवसन्नतिथिाह्मणः स्मृतः । अनित्या हि स्थितिर्यस्मात्तस्मादतिथिरुच्यते ॥ नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा । उपस्थितं गृहे विद्याद्भाऱ्या यत्राग्नयोऽपिवा ॥ यदि त्वतिथिधर्मेण क्षत्रियो गृहमागतः । भुक्तवत्सु च विप्रेषु कामं तमभिपूजयेत् ॥