________________
५०८
विष्णुस्मृतिः। वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ। भोजयेत् सह भृत्यैस्तावानृशंस्यं प्रयोजयन् ।। इतराण्यपि सख्यादीन् संप्रीत्या गृहमागतान् । प्रकृतानं यथाशक्ति भोजयेत् सह भार्यया ॥ सुवासिनी कुमारीञ्च रोगिणीं गुम्बिणीं तथा । अतिथिभ्योऽय एवैतान् भोजयेदविचारयन् ॥ अदत्त्वा यस्तु एतेभ्यः पूर्व भुक्तऽविचक्षणः । स भुञ्जानो न जानाति श्वगृध्रर्जग्धिमात्मनः ।। भुक्तवत्सु च विप्रेषु भृत्येषु स्वेषु चैव हि । भुञ्जयीतां ततः पश्चादवशिष्टन्तु दम्पती॥ देवान् पितॄन् मनुष्यांश्च भृत्यान् गृह्याश्च देवताः । पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत् ।। अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् । यज्ञ शिष्टाशनं ह्येतत् सतामन्न विधीयते ॥ स्वाध्यायेनाग्निहोत्रेण यज्ञेन तपसा तथा। न चाप्नोति गृही लोकान् यथा त्वतिथिपूजनात् ।। सायं प्रातस्त्वतिथये प्रदद्यादासनोदकम् । अन्नब्चैव यथा शक्त्या सत्कृत्य विधिपूर्वकम् ।। प्रतिश्रयं तथा शां पादाभ्यङ्ग सदीपकम् ! प्रत्येकदानेनाप्नोति गोप्रदानसमं फलम् ।। इति वैष्णवे धर्मशाले सप्तषष्टितमोऽध्यायः॥