SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ षट्षष्टितमोऽध्यायः । चामरं व्यजनं मात्रां छत्रं पानासने तथा । सावित्रेणैव तत् सव्वं देवाय विनिवेदयेत् ॥ एवमभ्यर्च्य च जपेत् सूक्तं वै पौरुषं ततः । तेनैव जुहुयादाज्यं य इच्छेत्शाश्वतं पदम् ।। इति वैष्णवे धर्मशास्त्रे पञ्चषष्टितमोऽध्यायः ।। ॥ अथ षट्षष्टितमोऽध्यायः ॥ न नक्तं गृहीतेनोदकेन देवपितृकर्म कुर्यात् । चन्दनमृगमदागुरुकर्पूरकुङ्कुमजातीफलवर्जमनुलेपनं न दद्यात् । न वासो नीलीरक्तम् । न मणिसुवर्णयोः प्रतिरूपमलङ्करणम्। नागन्धि । नोग्रगन्धि। न कण्ट किजम् । कण्टकिजमपि शुक्लं सुगन्धिकं दद्यात् । रक्तमपि कुङ्कुमं जलजश्च दद्यात् । न घूपार्थे जीवजातम् । न घृततैलं विना किश्चन दीपार्थे । नाभक्ष्यं नैवेद्यार्थे । न भक्ष्ये अप्यजामहिषीक्षीरे । पञ्चनखमत्स्यवराहमांसानि च । प्रयतश्च शुचिर्भूत्वा सर्वमेव निवेदयेत् । तन्मनाः सुमना भूत्वा त्वराक्रोधविवर्जितः ।। इति वैष्णवे धर्मशास्त्रे षट्षष्टितमोऽध्यायः ।।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy