SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ तमोऽध्यायः] आचारकृत्यवर्णनम् । मृत्तोयैः कृतमलापकर्षोऽप्सु निमज्यापोहिष्ठेति तिसभिहिरण्यवर्णा इतिचतसृभिरिदमापः प्रवहत इति चतुर्थमभिमन्त्रयेत् । ततोऽप्सु निमग्नस्त्रिरघमर्षणं जपेत् । तद्विष्णोः परमं पदमिति वा। द्रुपदां सावित्री वा । युञ्जते मन इत्यनुवाकं वा। पुरुषसूक्तं वा। स्नातश्चावासा देवपितृतर्पणमम्भःस्थ एव कुर्यात् । परिवर्तितवासाश्चेत्तीर्थमुत्तीर्य । अकृत्वा देवपितृतर्पणं स्नानवस्त्रादि न पीडयेत् । स्नात्वाचम्य विधिवदुपरपृरोत् । पुरुषसूक्तेन प्रत्र्यूचं पुरुषाय पुष्पाणि दद्यात् । उदकाञ्जलिं पश्चात् । आदावेव दिव्येन तीर्थेन देवतानां कुर्यात् । तदनन्तरं पित्र्येण पितृणाम् । तत्रादौ स्ववंश्यानां तर्पणं कुर्यात् । ततः सम्बन्धिबान्धवानाम् । ततः सुहृदाम् । एवं नित्यस्नायी स्यात् । स्नातश्च पवित्राणि यथाशक्ति जपेत् । विशेषतः सावित्री त्ववश्यं जपेत् पुरुषसूक्तञ्च । नैताभ्यामधिकमस्ति । स्नातोऽधिकारी भवति देवे पित्र्ये च कर्मणि । पवित्राणां तथा जप्ये दाने च विधिनोदिते ॥
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy