________________
त्रिषष्टितमोऽध्यायः।
५०१ नादान्तैः। यवसोदकैर्वाहनानामदत्त्वात्मनःक्षुत्तृष्णापनोदने न कुर्यात् । न चतुष्पथमधितिष्ठेत् । न रात्रौ वृक्षमूलम् । न शून्यालयं न तृणम्। न पशूनां बन्धनागारम् । न केशतुषकपालास्थिभस्माङ्गारान् । न कार्पासास्थि । चतुष्पथं प्रदक्षिणीकुर्य्यात् देवताञ्च प्रज्ञातांश्च वनस्पतीन् । अग्निब्राह्मणगणिकापूर्णकुम्भादर्शच्छत्रध्वजपताकाश्रीवृक्षवर्द्ध माननन्द्यावतींश्च तालदन्तचामराश्वगजाजगोदधिक्षीरमधुसिद्धार्थकांश्च वीणाचन्दनायुधागोमयपुष्पशाकगोरोचनादूर्वाप्ररोहांश्च उष्णीषालङ्कारमणिकनकरजतवस्त्रासनयानामिषांश्च भृङ्गारोद्धृतोवरारज्जुबद्धपशुकुमारीमीनांश्च दृष्ट्वा प्रयादिति । अथमत्तोन्मत्तव्यङ्गान् दृष्ट्वा निवर्त्तत । वान्तविविक्तमुण्डमलिनवसनजटिलवामनांश्च । कषायिप्रबजितमलिनांश्च । तैलगुड़शुष्कगोमयेन्धनतृणकुशपलाशभस्माङ्गारांश्च । लवणक्लीवासवनपुंसककासिरज्जुनिगड़मुक्तकेशांश्च । वीणाचन्दनाशाकोष्णीषालङ्करणकुमारी:प्रस्थानकालेऽभिनन्दयेदिति ।
देवब्राह्मणगुरुवभ्र दीक्षितानां च्छायां नाकामेत् । निष्ठयतवान्तरुधिरविण्मूत्रस्नानोदकानि वा ।
न वत्सतन्त्री लक्ष्येत् । प्रवर्षति न धावन् । न वृथा नदी तरेत्।