SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ विष्णुस्मृतिः। ॥ अथ द्विषष्टितमोऽध्यायः ॥ अथ द्विजातीनां कनीनिकामूले प्राजापत्यं नाम तीर्थम् । अङ्गुष्ठमूले ब्राह्मम् । अङ्गुल्यो दैवम् । तर्जनीमूले पित्र्यम्। अनग्न्युष्णाभिरफेनिलाभिर्नशूद्रैककरावर्जिताभिरक्षराभिरद्भिः शुचौ देशे स्वासीनोऽन्तर्जानुः प्राङ्मुखश्चोदङ्मुखोवातन्मनाः सुमनाश्वाचामेत् । ब्राह्मण तीर्थेन त्रिराचामेत् । द्विःप्रमृज्यात् । खान्यद्भिर्मूर्धानं हृदयं स्पृशेत् । हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः । शुद्धथेरन् स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः।। इति वैष्णवे धर्मशास्त्रे द्विषष्टितमोऽध्यायः॥ ॥ अथ त्रिषष्टितमोऽध्यायः॥ अथ योगक्षेमार्थमीश्वरमुपगच्छेत् । नैकोऽध्वानं प्रपद्येत । नाधाम्मिकैः सार्द्धम् । न वृषलैः। न द्विषद्भिः । नातिप्रत्यूषसि । नातिसायम् । न सन्ध्ययोः । न मध्याह्न न सन्निहितपानीयम् । नातितूर्णम् । न रात्रौ। न सन्ततं व्याल व्याधितातहिनैः । न हीनाङ्गैः न रोगिभिः। न दीनैः। न गोभिः ।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy