________________
ब्राह्ममुहूर्ताद्दिनचर्याकृत्यम् ।
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणञ्च वनस्थानां यतीनाञ्च चतुर्गुणम् ॥ sa वैष्णवे धर्मशास्त्रे षष्टितमोऽध्यायः ॥
ध्यायः ]
18001
४६६
॥ अथ - एकषष्टितमोऽध्यायः ॥
अथ पालाशं दन्तधावनं नाद्यात् । नैव श्लेष्मातकारिष्टविभीतकधववधन्बनजम् । न च बन्धूकनिर्गुण्डीशिग्रुतिल्वतिन्दुकजम् । न च कोविदारशमीपीलुपिप्पलेङ्गुदगुग्गुलुजम् । न पारिभद्र कालिकामोचकशाल्मलीशणजम् । न मधुरम् । नाम्लम् । नोर्ध्वशुकम्। न शु ( षि) शिरम् । न पूतिगन्धि । न पिच्छिलम् । न पिच्छिलम्। न दक्षिणापराभिमुखः ।
अद्याच्चोदङ्मुखः प्राङ्मुखोवा ।
बटासनार्कखदिरकरञ्जवदरसनिम्वारिमेदापामार्ग
मालतीककुभविल्वानामन्यतमम् । कषायं तिक्तं कटुकञ्च ।। कनीन्यप्रसमस्थौल्यं सकूचं द्वादशाङ्गुलम् ।
प्रातर्भूत्वा च यतवाक् भक्षयेद्दन्तधावनम् ॥ प्रक्षाल्य भुक्ता तजयाच्छुचौ देशे प्रयत्नतः । अमावास्यां न चाश्नीयाद्दन्तकाष्ठ कदाचन ॥
इति वैष्णवे धर्मशास्त्रे - एकषष्टितमोऽध्यायः ॥