________________
४६७
एकोनषष्टतमोऽयायः। ब्रीहियवयोर्वा पाके। त्रैवार्षिकाभ्यधिकान्नः प्रत्यब्दं सोमेन । वित्ताभावे इष्टथा वैश्वाना । शूद्रानं यागे परिहरेत् । यज्ञार्थं भिक्षितमवाप्तमथं सकलमेव वितरेत् । सायं प्रातर्वैश्वदेवं जुहुयात् । भिक्षां च भिक्षवे दद्यात् । अचिंतभिक्षादानेन गोदानफलमवाप्नोति । भिक्ष्वभावे तत्मानं गवां दद्यात् । . वह्नौ वा प्रक्षिपेत् । भुक्ताऽप्यन्ने विद्यमानेन भिक्षुकं प्रत्याचक्षीत। कण्डनी पेषणी चुल्ली कुम्भ-उपस्कर इति पञ्चसूना गृहस्थस्य । तनिष्कृत्यर्थञ्च ब्रह्मदेवभूतपितृनरयज्ञान् कुर्य्यात् । स्वाध्यायो ब्रह्मयज्ञः। होमो देवः। वलिभीतः। पितृ तर्पणं पित्र्यः। नृयज्ञश्चातिथिपूजनम् । देवतातिथिभृत्यानां पितृणामात्मनस्तथा । न निर्वपति पञ्चानामुच्छ्रसन्न स जीवति ।। ब्रह्मचारी यतिर्भिक्षुर्जीवन्त्येते गृहाश्रमात् । तस्मादभ्यागतानेतान् गृहस्थो नावमानयेत् ।। गृहस्थ एव यजते गृहस्थस्तप्यते तपः । ददाति च गृहस्थस्तु तस्माजथेष्ठो गृहाश्रमी । ऋषयः पितरो हेवा भूतान्यतिथयस्तथा । आशासते कुटुम्बिभ्यरतस्माच्छू ष्ठो गृहाश्रमी ॥