SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ ४६६ विष्णुरमृतिः। शुल्केनार्थेन यदैहिकं करोति तद्देवमासादयति । यच्छवलेन तन्मानुष्यम् । यत्कृष्णेन तत्तिर्योक्तम् । स्ववृत्त्युपार्जितं सर्व सर्वेषां शुल्कम् । अनन्तरवृत्त्युपात्तंशवलम् । अन्तरितवृत्त्युपात्तञ्च कृष्णम् । क्रमागतं प्रीतिदायं प्राप्तञ्च सह भार्यया। अविशेषेण सर्वेषां धनं शुल्क प्रकीर्तितम् ।। उत्कोचशुल्कसंप्राप्तमविक्रेयस्य विक्रये । कृतोपकारादाप्तञ्च शबलं समुदाहृतम् ।। पाश्विकबूतचौर्याप्तं प्रतिरूपकसाहसौ । व्याजेनोपार्जितं यच्च तत्कृष्गं समुदाहृतम् ।। यथाविधेन द्रव्येण यत्किञ्चित् कुरुते नरः। तथाविधमवाप्नोति स फलं प्रेत्य चेह च ॥ इति वैष्णवे धर्मशास्त्र अष्टपञ्चाशत्तमोऽध्यायः । ॥ अथ एकोनषष्टितमोऽध्यायः ॥ गृहाश्रमी वैवाहिकाग्नौ पाकयज्ञान् कुर्यात् । सायं प्रातश्चाग्निहोत्रम् । देवताभ्योजहुयात् । चन्द्रार्कसन्निकर्षविप्रकर्षयोईर्शपूर्णमासाभ्यां यजेत । प्रत्ययनं पशुना। शरद्ग्रीष्मयोश्चाप्रहायणेन । .
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy